Vedāṅgajyotiṣam/Chapter 02
पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् ।
दिनत्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥१॥
Test
Test
Vedāṅgajyotiṣam/Chapter 02
ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः ।
सम्मतं ब्राह्मणेन्द्राणां यज्ञकालार्थसिद्धये ॥२॥
Vedāṅgajyotiṣam/Chapter 02
वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूर्व्या विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं
यो ज्योतिषं वेद स वेद यज्ञम् ॥३॥
Vedāṅgajyotiṣam/Chapter 02
यथा शिखा मयूराणां नागानां मणयो यथा ।
तद्वद् वेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ॥४॥
Vedāṅgajyotiṣam/Chapter 02
ये बृहस्पतिना भुक्ता मीनात् प्रभृति राशयः ।
(ते हता.) पञ्चभि(र्भू)ता यः शेषः स परिग्रहः ॥
Un-numbered verse in all manuscripts. Follows verse 4 in mss.
Vedāṅgajyotiṣam/Chapter 02
माघशुक्लप्रपन्नस्य पौषकृष्णसमापितः ।
युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥५॥
Vedāṅgajyotiṣam/Chapter 02
स्वराक्रमेते सोमाकौ यदा साकं सवासवौ ।
स्यात्तदादि युगं माघस्तपश्शुक्लोड्यनं ह्यदक् ॥६॥
Vedāṅgajyotiṣam/Chapter 02
प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् ।
सार्षार्धं दक्षिणार्कस्तु माघश्रावणयोः सदा ॥७॥
Vedāṅgajyotiṣam/Chapter 02
धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ ।
दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥८॥
Vedāṅgajyotiṣam/Chapter 02
प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम् ।
चतुर्थं दशमं(च द्वि) र्युग्माद्यं बहुलेऽप्यूतौ ॥९॥
Source prints the verse number as ।।६।। — corrected to ९ based on sequence.
Vedāṅgajyotiṣam/Chapter 02
वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् ।
धाता कश्चायनाद्याः स्युरर्धपञ्चमभस्त्वृतुः ॥१०॥
Vedāṅgajyotiṣam/Chapter 02
एकान्तरेऽह्नि मासे च पूर्वान् कृत्वादि(मु)त्तरः ।
अर्धयोः पञ्चवर्षाणां(ऋदु) पञ्चदशाष्टमे ॥११॥
Vedāṅgajyotiṣam/Chapter 02
(द्यु) हेयं पर्व चेत्पादे पादस्त्रिंशत्तु सैकिका ।
भागात्मनापवृज्यां(शान्) निर्दिशेदधिको यदि ॥१२॥
Vedāṅgajyotiṣam/Chapter 02
निरेकं द्वादशाभ्यस्तं द्विगुणं(गतसंयुतम्) ।
षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥१३॥
Vedāṅgajyotiṣam/Chapter 02
स्युः पादोऽर्धं त्रिपाद्या या त्रिद्व्येकेऽह्नः(कृता) स्थितिम् ।
साम्येनेन्दोः(स्त्वृ) णोऽन्ये तु पर्वकाः पञ्चसम्मिताः ॥१४॥
Source prints verse 15 before verse 14; order restored here based on ms. numbering.
Vedāṅgajyotiṣam/Chapter 02
भांशाः स्युरष्टकाः कार्याः(पक्ष) द्वादशकोद्गताः ।
एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि ॥१५॥
Source prints this verse before verse 14; order restored here based on ms. numbering.
Vedāṅgajyotiṣam/Chapter 02
नवकैरुद्गतोऽशः स्यादूतः सप्तगुणो भवेत् ।
आवापस्त्वयुजेऽर्धं स्यात् पौलस्त्येऽस्तंगतेऽपरम् ॥१६॥
Vedāṅgajyotiṣam/Chapter 02
जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्वसूत्तराः ।
भाऽऽदानं स्याच्चतुर्दश्या(द्यु) भागेभ्योऽधिको यदि ॥१७॥
Vedāṅgajyotiṣam/Chapter 02
जौ द्रा गः खे श्वे ऽही रो षा
चिन् मू षण् यः सू मा धा णः ।
रे मृ घाः स्वा ऽपो ऽजः कृ ष्यो
ह ज्ये ष्ठा इत्यूक्षा लिङ्गैः ॥१८॥
Vedāṅgajyotiṣam/Chapter 02
कार्या भांशाष्टकस्थाने कला एकान्नविंशतिः ।
ऊनस्थाने(त्रि) सप्ततिमुद्वपे(दूनसम्भवे) ॥१९॥
Source prints the verse number as ।।१६।। — corrected to १९ based on sequence.
Vedāṅgajyotiṣam/Chapter 02
तिथिमेकादशाभ्यस्तां पर्वभांशसमन्विताम् ।
विभज्य भसमूहेन तिथिनक्षत्रमादिशेत् ॥२०॥
Vedāṅgajyotiṣam/Chapter 02
याः पर्वभादानकलास्तासु सप्तगुणां तिथिम् ।
(युक्त्या) तासां विजानीयात् तिथिभादानिकाः कलाः ॥२१॥
Vedāṅgajyotiṣam/Chapter 02
अतीतपर्वभागेभ्यः शोधयेद्(द्विगुणां) तिथिम् ।
तेषु मण्डलभागेषु तिथिनिष्ठांगतो रविः ॥२२॥
Vedāṅgajyotiṣam/Chapter 02
विषुवन्तं द्विरभ्यस्तं रूपोनं षड्गुणीकृतम् ।
पक्षा यदर्ध पक्षाणां तिथिः स विषुवान् स्मृतः ॥२३॥
Vedāṅgajyotiṣam/Chapter 02
पलानि पञ्चाशदपां धृतानि
तदाढकं द्रोणमत. प्रमेयम् ।
त्रिभिर्विहीनं कुडवैस्तु कार्यं
तन्नाडिकायास्तु भवेत् प्रमाणम् ॥२४॥
Vedāṅgajyotiṣam/Chapter 02
एकादशभिरभ्यस्य पर्वाणि नवभिस्तिथिम् ।
युगलब्धं सपर्व स्याद् वर्तमानार्क(भं) क्रमात् ॥२५॥
Vedāṅgajyotiṣam/Chapter 02
सूर्यर्क्षभागान् नवभिर्विभज्य
शेषं द्विरभ्यस्य दिनोपभुक्तिः ।
ति(थे)र्युता भुक्तिदिनेषु कालो
(योगो) दिनैकादशकेन तद्भुम् ॥२६॥
Vedāṅgajyotiṣam/Chapter 02
(त्यंशो) भशेषो दिवसांशभाग-
श्चतुर्दशश्चाप्यनीय भिन्नम् ।
भार्धेऽधिके चापि गते परोंऽशो
द्वावुत्तमे तन्नव कै रवे(त्य) ॥२७॥
Vedāṅgajyotiṣam/Chapter 02
त्रिशत्यह्नां सषट्षष्टिरब्दः षट् चर्तवोऽयने ।
मासा द्वादश सूर्याः स्युः एतत्पञ्चगुणं युगम् ॥२८॥
Vedāṅgajyotiṣam/Chapter 02
उदया वासवस्य स्युर्दिनराशिः(स) पञ्चकः ।
ऋषोद्विषष्टिहीनं स्याद्विशत्या(सै) कया स्तूणाम् ॥२९॥
Vedāṅgajyotiṣam/Chapter 02
पञ्चत्रिंशं शतं पौष्णमेकोनमयनान्यूषेः ।
पर्वणां स्याच्चतुष्पादी काष्ठानां चैव ताः कलाः ॥३०॥
Vedāṅgajyotiṣam/Chapter 02
सावनेन्दु(स्तृ) मासानां षष्टिः(सैक) द्विसप्तिका ।
द्युतिशत् सावनः सार्धः सूर्यः(स्तृ) णां स पर्ययः ॥३१॥
Vedāṅgajyotiṣam/Chapter 02
अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः ।
सर्पाश्च पितरश्चैव भगश्चैवार्यमाऽऽपि च ॥३२॥
Vedāṅgajyotiṣam/Chapter 02
सविता त्वष्टाऽथ वायुश्चेन्द्राग्नी मित्र एव च ।
इन्द्रो निऋतिरापो वै विश्वेदेवास्तथैव च ॥३३॥
Vedāṅgajyotiṣam/Chapter 02
विष्णुर्वसवो वरुणोऽज एकपात् तथैव च ।
अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥३४॥
Vedāṅgajyotiṣam/Chapter 02
नक्षत्रदेवता ह्येता एताभिर्यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैः नाम नक्षत्रज स्मृतम् ॥३५॥
Vedāṅgajyotiṣam/Chapter 02
उग्राण्यार्द्रा च चित्रा च विशाखा श्रवणोऽश्वयुक् ।
क्रूराणि तु मघा(स्वाती) ज्येष्ठा मूलं यमस्य यत् ॥३६॥
Vedāṅgajyotiṣam/Chapter 02
(द्यू)नं द्विषष्टिभागेन हेयं सौर्यात् सपार्वणम् ।
यत्कृतावुपजायेते मध्येऽन्ते चाधिमासकौ ॥३७॥
Vedāṅgajyotiṣam/Chapter 02
कला दश सर्विशा स्याद्(द्वे) मुहूर्तस्य नाडिके ।
द्यु(स्त्रिं) शत् तत्कालानां तु षट्छती त्रयोदश ॥३८॥
Source runs verses 38 and 39 together as a single unit; separated here based on content and parallel with R-VJ. The shared final pāda '(नवमानि) तु पञ्चाह्नः काष्ठा पञ्चाक्षरा भवेत्' appears at the end of the combined block — assigned to verse 39 as its closing pāda.
Vedāṅgajyotiṣam/Chapter 02
ससप्तकं भयुक् सोमः सूर्यो दूयनि त्रयोदश ।
(नवमानि) तु पञ्चाह्नः काष्ठा पञ्चाक्षरा भवेत् ॥३९॥
See note on Verse 38. Source conflates verses 38 and 39 into one block.
Vedāṅgajyotiṣam/Chapter 02
यदुत्तरस्यायनतो गतं स्या-
(च)छेषं तथा दक्षिणतोऽयनस्य ।
तदेकषष्ट्या द्विगुणं विभक्तं
सद्वादशं स्याद्दिवसप्रमाणम् ॥४०॥
Vedāṅgajyotiṣam/Chapter 02
यदर्थं दिनभागानां सदा पर्वणि पर्वणि ।
ऋतुशेषं तु तद् विद्यात्(संख्याय) सह पर्वणाम् ॥४१॥
Vedāṅgajyotiṣam/Chapter 02
इत्युपायसमुद्देशो भूयोऽप्यह्नः प्रकल्पयेत् ।
ज्ञेयराशिगताभ्य(स्तं) विभजेज् ज्ञानराशिना ॥४२॥
Vedāṅgajyotiṣam/Chapter 02
इत्येवं मासवर्षाणां मुहूर्तोदयपर्वणाम् ।
दिनर्त्वयनमासाङ्गं व्याख्यानं लगधोऽब्रवीत् ॥
Un-numbered verse in all manuscripts. Follows verse 42 in mss.
Vedāṅgajyotiṣam/Chapter 02
सोमसूर्यस्तृचरितं विद्वान् वेदविदश्नुते ।
सोमसूर्यस्तृचरितं लोकं लोके च सन्ततिम् ॥४३॥